Sukta 2.24
सेमामविड्ढि प्रभृतिं य ईशिषेऽया विधेम नवया महा गिरा । यथा नो मीढ्वान्त्स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥
सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा । यथा॑ नो मी॒ढ्वान्त्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑ध॒: सोत नो॑ म॒तिम् ॥
sémām aviḍḍhi prábhṛtiṃ yá ī́śiṣe ’yā́ vidhéma návayā mahā́ girā́ | yáthā no mīḍhvā́n stávate sákhā táva bṛ́haspate sī́ṣadhaḥ sóta no matím ||
Know this our offering-source, you who rule; with this new and great word we would serve you—so that the bountiful friend of yours may praise you for us. O Bṛhaspati, set it in motion and press out for us the inspired thought.
सः । इ॒माम् । अ॒वि॒ड्ढि॒ । प्रऽभृ॑तिम् । यः । ईशि॑षे । अ॒या । वि॒धे॒म॒ । नव॑या । म॒हा । गि॒रा । यथा॑ । नः॒ । मी॒ढ्वान् । स्तव॑ते । सखा॑ । तव॑ । बृह॑स्पते । सीस॑धः । सः । उ॒त । नः॒ । म॒तिम् ॥सः । इमाम् । अविड्ढि । प्रभृतिम् । यः । ईशिषे । अया । विधेम । नवया । महा । गिरा । यथा । नः । मीढ्वान् । स्तवते । सखा । तव । बृहस्पते । सीसधः । सः । उत । नः । मतिम् ॥saḥ | imām | aviḍḍhi | pra-bhṛtim | yaḥ | īśiṣe | ayā | vidhema | navayā | mahā | girā | yathā | naḥ | mīḍhavān | stavate | sakhā | tava | bṛhaspate | sīsadhaḥ | saḥ | uta | naḥ | matim