Sukta 2.24
ब्रह्मणस्पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः । वीरेषु वीराँ उप पृङ्धि नस्त्वं यदीशानो ब्रह्मणा वेषि मे हवम् ॥
ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा॑ रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः । वी॒रेषु॑ वी॒राँ उप॑ पृङ्धि न॒स्त्वं यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव॑म् ॥
bráhmaṇaspate su-yám asya viśváhā rāyáḥ syāma rathyò vayasvatáḥ | vīréṣu vīrā́m̐ úpa pṛṅdhi nas tváṃ yad ī́śāno bráhmaṇā véṣi me hávam ||
O Brahmaṇaspati, make this our course well-governed at all times; may we be full of the riches that carry us forward, rich in life-power. Among heroes, heap hero-strength upon us, for you are the lord who comes by the Word to my call.
ब्रह्म॑णः । प॒ते॒ । सु॒ऽयम॑स्य । वि॒श्वहा॑ । रा॒यः । स्या॒म॒ । र॒थ्यः॑ । वय॑स्वतः । वी॒रेषु॑ । वी॒रान् । उप॑ । पृ॒ङ्धि॒ । नः॒ । त्वम् । यत् । ईशा॑नः । ब्रह्म॑णा । वेषि॑ । मे॒ । हव॑म् ॥ब्रह्मणः । पते । सुयमस्य । विश्वहा । रायः । स्याम । रथ्यः । वयस्वतः । वीरेषु । वीरान् । उप । पृङ्धि । नः । त्वम् । यत् । ईशानः । ब्रह्मणा । वेषि । मे । हवम् ॥brahmaṇaḥ | pate | su-yamasya | viśvahā | rāyaḥ | syāma | rathyaḥ | vayasvataḥ | vīreṣu | vīrān | upa | pṛṅdhi | naḥ | tvam | yat | īśānaḥ | brahmaṇā | veṣi | me | havam