Sukta 2.24
ब्रह्मणस्पतेरभवद्यथावशं सत्यो मन्युर्महि कर्मा करिष्यतः । यो गा उदाजत्स दिवे वि चाभजन्महीव रीतिः शवसासरत्पृथक् ॥
ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः । यो गा उ॒दाज॒त्स दि॒वे वि चा॑भजन्म॒हीव॑ री॒तिः शव॑सासर॒त्पृथ॑क् ॥
bráhmaṇas-páter abhavad yathā́vaśaṃ satyó manyúr máhi kármā kariṣyatáḥ | yó gā́ ud-ā́jat sá divé ví cā́bhajam mahī́va rītíḥ śávasā asarat pṛ́thak ||
From Brahmaṇaspati there arose, according to his mastery, a true wrath—ready to accomplish a mighty work. He who drove upward the Rays (the cows), he distributed them for the heaven; like a vast flood-channel his force ran forth, separating the paths from confusion.
ब्रह्म॑णः । पतेः॑ । अ॒भ॒व॒त् । य॒था॒ऽव॒शम् । स॒त्यः । म॒न्युः । महि॑ । कर्म॑ । क॒रि॒ष्य॒तः । यः । गाः । उ॒त्ऽआज॑त् । सः । दि॒वे । वि । च॒ । अ॒भ॒ज॒त् । म॒हीऽइ॑व । री॒तिः । शव॑सा । अ॒स॒र॒त् । पृथ॑क् ॥ब्रह्मणः । पतेः । अभवत् । यथावशम् । सत्यः । मन्युः । महि । कर्म । करिष्यतः । यः । गाः । उत्आजत् । सः । दिवे । वि । च । अभजत् । महीइव । रीतिः । शवसा । असरत् । पृथक् ॥brahmaṇaḥ | pateḥ | abhavat | yathāvaśam | satyaḥ | manyuḥ | mahi | karma | kariṣyataḥ | yaḥ | gāḥ | ut-ājat | saḥ | dive | vi | ca | abhajat | mahī-iva | rītiḥ | śavasā | asarat | pṛthak