Sukta 2.24
उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना । वीळुद्वेषा अनु वश ऋणमाददिः स ह वाजी समिथे ब्रह्मणस्पतिः ॥
उ॒ताशि॑ष्ठा॒ अनु॑ शृण्वन्ति॒ वह्न॑यः स॒भेयो॒ विप्रो॑ भरते म॒ती धना॑ । वी॒ळु॒द्वेषा॒ अनु॒ वश॑ ऋ॒णमा॑द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पति॑: ॥
utā́śiṣṭhā́ ánu śṛṇvanti váhnayaḥ sabhéyo vípro bharate matī́ dhánā | vīḷu-dvéṣā ánu váśa ṛṇám ādadíḥ sá ha vājī́ sam-ithé bráhmaṇas-pátiḥ ||
And the most powerful bearers of the flame hearken to him; the inspired one, fit for the assembly, brings forth thoughts that are riches. Following his will, he takes away the debt from the hostile hold; that victorious one is Brahmaṇaspati in the battle-meeting.
उ॒त । आशि॑ष्ठाः । अनु॑ । शृ॒ण्व॒न्ति॒ । वह्न॑यः । स॒भेयः॑ । विप्रः॑ । भ॒र॒ते॒ । म॒ती । धना॑ । वी॒ळु॒ऽद्वेषाः॑ । अनु॑ । वशा॑ । ऋ॒णम् । आ॒ऽद॒दिः । सः । ह॒ । वा॒जी । स॒म्ऽइ॒थे । ब्रह्म॑णः । पतिः॑ ॥उत । आशिष्ठाः । अनु । शृण्वन्ति । वह्नयः । सभेयः । विप्रः । भरते । मती । धना । वीळुद्वेषाः । अनु । वशा । ऋणम् । आददिः । सः । ह । वाजी । सम्इथे । ब्रह्मणः । पतिः ॥uta | āśiṣṭhāḥ | anu | śṛṇvanti | vahnayaḥ | sabheyaḥ | vipraḥ | bharate | matī | dhanā | vīḷu-dveṣāḥ | anu | vaśā | ṛṇam | ādadiḥ | saḥ | ha | vājī | sam-ithe | brahmaṇaḥ | patiḥ