Sukta 2.24
विश्वं सत्यं मघवाना युवोरिदापश्चन प्र मिनन्ति व्रतं वाम् । अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम् ॥
विश्वं॑ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नन्ति व्र॒तं वा॑म् । अच्छे॑न्द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे॑व वा॒जिना॑ जिगातम् ॥
víśvaṃ satyáṃ maghavānā yuvór íd ā́paś caná prá mínanti vratáṃ vām | ácchendrā-brahmaṇaspatī havír no ’nnaṃ yújā iva vā́jinā jigātam ||
O two bountiful Powers (Indra and Brahmaṇaspati), your law of working is wholly Truth; even the Waters cannot diminish your ordained action. Come to us—O Indra-Brahmaṇaspati—bringing our offering and the sustaining food, as two strong steeds yoked to the car of plenitude.
विश्व॑म् । स॒त्यम् । म॒घ॒ऽवा॒ना॒ । यु॒वोः । इत् । आपः॑ । च॒न । प्र । मि॒न॒न्ति॒ । व्र॒तम् । वा॒म् । अच्छ॑ । इ॒न्द्रा॒ब्र॒ह्म॒ण॒स्प॒ती॒ इति॑ । ह॒विः । नः॒ । अन्न॑म् । युजा॑ऽइव । वा॒जिना॑ । जि॒गा॒त॒म् ॥विश्वम् । सत्यम् । मघवाना । युवोः । इत् । आपः । चन । प्र । मिनन्ति । व्रतम् । वाम् । अच्छ । इन्द्राब्रह्मणस्पती इति । हविः । नः । अन्नम् । युजाइव । वाजिना । जिगातम् ॥viśvam | satyam | magha-vānā | yuvoḥ | it | āpaḥ | cana | pra | minanti | vratam | vām | accha | indrābrahmaṇaspatī iti | haviḥ | naḥ | annam | yujāiva | vājinā | jigātam