Sukta 2.24
योऽवरे वृजने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ । स देवो देवान्प्रति पप्रथे पृथु विश्वेदु ता परिभूर्ब्रह्मणस्पतिः ॥
योऽव॑रे वृ॒जने॑ वि॒श्वथा॑ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ । स दे॒वो दे॒वान्प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पति॑: ॥
yó ’váre vṛjáné viśváthā vibhúr mahā́m u raṇváḥ śávasā vavákṣitha | sá devó devā́n práti papráthe pṛthú víśved u tā́ paribhū́r bráhmaṇas pátiḥ ||
He who, even in the lower field, is everywhere vast, the delightful one who has grown great by force—he, the god, has spread wide against the gods themselves; over all these worlds Brahmaṇaspati stands encompassing and surpassing.
यः । अव॑रे । वृ॒जने॑ । वि॒श्वऽथा॑ । वि॒ऽभुः म॒हाम् । ऊँ॒ इति॑ । र॒ण्वः । शव॑सा । व॒वक्षि॑थ । सः । दे॒वः । दे॒वान् । प्रति॑ । प॒प्र॒थे॒ । पृ॒थु । विश्वा॑ । इत् । ऊँ॒ इति॑ । ता । प॒रि॒ऽभूः । ब्रह्म॑णः । पतिः॑ ॥यः । अवरे । वृजने । विश्वथा । विभुः महाम् । ऊँ इति । रण्वः । शवसा । ववक्षिथ । सः । देवः । देवान् । प्रति । पप्रथे । पृथु । विश्वा । इत् । ऊँ इति । ता । परिभूः । ब्रह्मणः । पतिः ॥yaḥ | avare | vṛjane | viśva-thā | vi-bhuḥ mahām | oṃ iti | raṇvaḥ | śavasā | vavakṣitha | saḥ | devaḥ | devān | prati | paprathe | pṛthu | viśvā | it | oṃ iti | tā | pari-bhūḥ | brahmaṇaḥ | patiḥ