Sukta 2.24
विभु प्रभु प्रथमं मेहनावतो बृहस्पतेः सुविदत्राणि राध्या । इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः ॥
वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना॑वतो॒ बृह॒स्पते॑: सुवि॒दत्रा॑णि॒ राध्या॑ । इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना॑ उ॒भये॑ भुञ्ज॒ते विश॑: ॥
vibhú prabhú prathamáṃ mehanā́vato bṛ́haspáteḥ suvidátrāṇi rā́dhyā | imā́ sātā́ni venyásya vā́jino yéna jánā ubháye bhuñjáte víśaḥ ||
Vast and sovereign are the first attainments to be won of Bṛhaspati, rich in generative power: these conquests of the desirable bringer of plenitude are to be accomplished, by which the peoples enjoy both the inner and the outer good.
वि॒ऽभु । प्र॒ऽभु । प्र॒थ॒मम् । मे॒हना॑ऽवतः । बृह॒स्पतेः॑ । सु॒ऽवि॒दत्रा॑णि । राध्या॑ । इ॒मा । सा॒तानि॑ । वे॒न्यस्य॑ । वा॒जिनः॑ । येन॑ । जनाः॑ । उ॒भये॑ । भु॒ञ्ज॒ते । विशः॑ ॥विभु । प्रभु । प्रथमम् । मेहनावतः । बृहस्पतेः । सुविदत्राणि । राध्या । इमा । सातानि । वेन्यस्य । वाजिनः । येन । जनाः । उभये । भुञ्जते । विशः ॥vi-bhu | pra-bhu | prathamam | mehanāvataḥ | bṛhaspateḥ | su-vidatrāṇi | rādhyā | imā | sātāni | venyasya | vājinaḥ | yena | janāḥ | ubhaye | bhuñjate | viśaḥ