Sukta 2.23
त्वया वयं सुवृधा ब्रह्मणस्पते स्पार्हा वसु मनुष्या ददीमहि । या नो दूरे तळितो या अरातयोऽभि सन्ति जम्भया ता अनप्नसः ॥
त्वया॑ व॒यं सु॒वृधा॑ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि । या नो॑ दू॒रे त॒ळितो॒ या अरा॑तयो॒ऽभि सन्ति॑ ज॒म्भया॒ ता अ॑न॒प्नस॑: ॥
tváyā vayáṃ su-vṛ́dhā brahmaṇas-pate spā́rhā vásu manuṣyā́ dadīmahi | yā́ no dūré táḷito yā́ arā́tayo 'bhí sánti jambháyā tā́ anapnásaḥ ||
With you, O well-increasing Lord of the Word, we would gain the desirable human riches—fullnesses of being. The distant assailants and the hostilities that press upon us—crush them, so they become powerless and without accomplishment.
त्वया॑ । व॒यम् । सु॒ऽवृधा॑ । ब्र॒ह्म॒णः॒ । प॒ते॒ । स्पा॒र्हा । वसु॑ । म॒नु॒ष्या॑ । आ । द॒दी॒म॒हि॒ । याः । नः॒ । दू॒रे । त॒ळितः॑ । याः । अरा॑तयः । अ॒भि । सन्ति॑ । ज॒म्भय॑ । ताः । अ॒न॒प्नसः॑ ॥त्वया । वयम् । सुवृधा । ब्रह्मणः । पते । स्पार्हा । वसु । मनुष्या । आ । ददीमहि । याः । नः । दूरे । तळितः । याः । अरातयः । अभि । सन्ति । जम्भय । ताः । अनप्नसः ॥tvayā | vayam | su-vṛdhā | brahmaṇaḥ | pate | spārhā | vasu | manuṣyā | ā | dadīmahi | yāḥ | naḥ | dūre | taḷitaḥ | yāḥ | arātayaḥ | abhi | santi | jambhaya | tāḥ | anapnasaḥ