Sukta 2.23
उत वा यो नो मर्चयादनागसोऽरातीवा मर्तः सानुको वृकः । बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि ॥
उ॒त वा॒ यो नो॑ म॒र्चया॒दना॑गसोऽराती॒वा मर्त॑: सानु॒को वृक॑: । बृह॑स्पते॒ अप॒ तं व॑र्तया प॒थः सु॒गं नो॑ अ॒स्यै दे॒ववी॑तये कृधि ॥
utá vā́ yó no marcáyād anā́gaso 'rātī-vā́ mártaḥ sānukó vṛ́kaḥ | bṛ́haspate ápa táṃ vartayā patháḥ su-gáṃ no asyái devá-vītaye kṛdhi ||
And if some mortal, wolfish and creeping, hostile in will, should seek to wound us though we are without fault—O Bṛhaspati, turn him away from our path. Make our way good and open for this attracting of the gods’ powers.
उ॒त । वा॒ । यः । नः॒ । म॒र्चया॑त् । अना॑गसः । अ॒रा॒ती॒ऽवा । मर्तः॑ । सा॒नु॒कः । वृकः॑ । बृह॑स्पते । अप॑ । तम् । व॒र्त॒य॒ । प॒थः । सु॒ऽगम् । नः॒ । अ॒स्यै । दे॒वऽवी॑तये । कृ॒धि॒ ॥उत । वा । यः । नः । मर्चयात् । अनागसः । अरातीवा । मर्तः । सानुकः । वृकः । बृहस्पते । अप । तम् । वर्तय । पथः । सुगम् । नः । अस्यै । देववीतये । कृधि ॥uta | vā | yaḥ | naḥ | marcayāt | anāgasaḥ | arātī-vā | martaḥ | sānukaḥ | vṛkaḥ | bṛhaspate | apa | tam | vartaya | pathaḥ | su-gam | naḥ | asyai | deva-vītaye | kṛdhi