Sukta 2.23
त्वं नो गोपाः पथिकृद्विचक्षणस्तव व्रताय मतिभिर्जरामहे । बृहस्पते यो नो अभि ह्वरो दधे स्वा तं मर्मर्तु दुच्छुना हरस्वती ॥
त्वं नो॑ गो॒पाः प॑थि॒कृद्वि॑चक्ष॒णस्तव॑ व्र॒ताय॑ म॒तिभि॑र्जरामहे । बृह॑स्पते॒ यो नो॑ अ॒भि ह्वरो॑ द॒धे स्वा तं म॑र्मर्तु दु॒च्छुना॒ हर॑स्वती ॥
tváṃ no gopā́ḥ pathi-kṛ́d vi-cakṣaṇas táva vratā́ya matí-bhir jarāmahe | bṛ́haspate yó no abhí hvøró dadhé svā́ táṃ marmartu ducchúnā hárasvatī ||
You are our guardian, maker of the path, the clear-seeing; with our thoughts we seek to grow into your law of working. O Bṛhaspati, whoever sets crooked harm against us—may your own force crush him with dire evil, O Harasvatī.
त्वम् । नः॒ । गो॒ऽपाः । प॒थि॒ऽकृत् । वि॒ऽच॒क्ष॒णः । तव॑ । व्र॒ताय॑ । म॒तिऽभिः॑ । ज॒रा॒म॒हे॒ । बृह॑स्पते । यः । नः॒ । अ॒भि । ह्वरः॑ । द॒धे । स्वा । तम् । म॒र्म॒र्तु॒ । दु॒च्छुना॑ । हर॑स्वती ॥त्वम् । नः । गोपाः । पथिकृत् । विचक्षणः । तव । व्रताय । मतिभिः । जरामहे । बृहस्पते । यः । नः । अभि । ह्वरः । दधे । स्वा । तम् । मर्मर्तु । दुच्छुना । हरस्वती ॥tvam | naḥ | go--pāḥ | pathi-kṛt | vi-cakṣaṇaḥ | tava | vratāya | mati-bhiḥ | jarāmahe | bṛhaspate | yaḥ | naḥ | abhi | hvaraḥ | dadhe | svā | tam | marmartu | ducchunā | harasvatī