Sukta 2.23
न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनः । विश्वा इदस्माद्ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस्पते ॥
न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा॑तयस्तितिरु॒र्न द्व॑या॒विन॑: । विश्वा॒ इद॑स्माद्ध्व॒रसो॒ वि बा॑धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ॥
ná tám áṃho ná duritáṃ kútaś caná nā́rātayas titirúr ná dvayā́vinaḥ | víśvā íd asmād dhvaráso ví bādhase yáṃ su-gopā́ rakṣasi brahmaṇas-pate ||
No anguish, no evil from any side, no hostile assailants, no double-dealers can overpass the one you guard. All the crooked violences you drive away from him—him whom you protect well, O Master of the Word.
न । तम् । अंहः॑ । न । दुः॒ऽइ॒तम् । कुतः॑ । च॒न । न । अरा॑तयः । ति॒ति॒रुः॒ । न । द्व॒या॒विनः॑ । विश्वाः॑ । इत् । अ॒स्मा॒त् । ध्व॒रसः॑ । वि । बा॒ध॒से॒ । यम् । सु॒ऽगो॒पाः । रक्ष॑सि । ब्र॒ह्म॒णः॒ । प॒ते॒ ॥न । तम् । अंहः । न । दुःइतम् । कुतः । चन । न । अरातयः । तितिरुः । न । द्वयाविनः । विश्वाः । इत् । अस्मात् । ध्वरसः । वि । बाधसे । यम् । सुगोपाः । रक्षसि । ब्रह्मणः । पते ॥na | tam | aṃhaḥ | na | duḥ-itam | kutaḥ | cana | na | arātayaḥ | titiruḥ | na | dvayāvinaḥ | viśvāḥ | it | asmāt | dhvarasaḥ | vi | bādhase | yam | su-gopāḥ | rakṣasi | brahmaṇaḥ | pate