Sukta 2.23
सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान्न तमंहो अश्नवत् । ब्रह्मद्विषस्तपनो मन्युमीरसि बृहस्पते महि तत्ते महित्वनम् ॥
सु॒नी॒तिभि॑र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्न तमंहो॑ अश्नवत् । ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत्ते॑ महित्व॒नम् ॥
sunī́ti-bhir nayasi trā́yase jánaṃ yás tubhyaṃ dā́śān ná tám áṃho aśnavat | brahma-dvíṣas tápano manyu-mī́r asi bṛ́haspate máhi tát te mahi-tvánam ||
By right leadings you guide and you protect the human being; he who gives himself to you does not fall into anguish. You are the burning force against the haters of the Word, a smiter of hostile wrath; O Bṛhaspati, great indeed is your greatness.
सु॒नी॒तिऽभिः॑ । न॒य॒सि॒ । त्राय॑से । जन॑म् । यः । तुभ्य॑म् । दाशा॑त् । न । तम् । अंहः॑ । अ॒श्न॒व॒त् । ब्र॒ह्म॒ऽद्विषः॑ । तप॑नः । म॒न्यु॒ऽमीः । अ॒सि॒ । बृह॑स्पते । महि॑ । तत् । ते॒ । म॒हि॒ऽत्व॒नम् ॥सुनीतिभिः । नयसि । त्रायसे । जनम् । यः । तुभ्यम् । दाशात् । न । तम् । अंहः । अश्नवत् । ब्रह्मद्विषः । तपनः । मन्युमीः । असि । बृहस्पते । महि । तत् । ते । महित्वनम् ॥sunīti-bhiḥ | nayasi | trāyase | janam | yaḥ | tubhyam | dāśāt | na | tam | aṃhaḥ | aśnavat | brahma-dviṣaḥ | tapanaḥ | manyu-mīḥ | asi | bṛhaspate | mahi | tat | te | mahi-tvanam