Sukta 2.23
आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि । बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम् ॥
आ वि॒बाध्या॑ परि॒राप॒स्तमां॑सि च॒ ज्योति॑ष्मन्तं॒ रथ॑मृ॒तस्य॑ तिष्ठसि । बृह॑स्पते भी॒मम॑मित्र॒दम्भ॑नं रक्षो॒हणं॑ गोत्र॒भिदं॑ स्व॒र्विद॑म् ॥
ā́ vi-bā́dhya pari-rā́pas tamā́ṃsi ca jyótiṣmantaṃ rátham ṛtásya tiṣṭhasi | bṛ́haspate bhīmám amítra-dámbhanaṃ rakṣó-haṇaṃ gotrá-bhidaṃ svàr-vidám ||
Driving away the enclosing darknesses and the hostile pressures, you take your stand upon the luminous chariot of the Truth. O Bṛhaspati, formidable, breaker of the enemy’s arrogances, slayer of the devouring forces, splitter of the cave of concealment, finder of the Sun-worlds of light.
आ । वि॒ऽबाध्य॑ । प॒रि॒ऽरपः॑ । तमां॑सि । च॒ । ज्योति॑ष्मन्त॑म् । रथ॑म् । ऋ॒तस्य॑ । ति॒ष्ठ॒सि॒ । बृह॑स्पते । भी॒मम् । अ॒मि॒त्र॒ऽदम्भ॑नम् । र॒क्षः॒ऽहन॑म् । गो॒त्र॒ऽभिद॑म् । स्वः॒ऽविद॑म् ॥आ । विबाध्य । परिरपः । तमांसि । च । ज्योतिष्मन्तम् । रथम् । ऋतस्य । तिष्ठसि । बृहस्पते । भीमम् । अमित्रदम्भनम् । रक्षःहनम् । गोत्रभिदम् । स्वःविदम् ॥ā | vi-bādhya | pari-rapaḥ | tamāṃsi | ca | jyotiṣmantam | ratham | ṛtasya | tiṣṭhasi | bṛhaspate | bhīmam | amitra-dambhanam | rakṣaḥ-hanam | gotra-bhidam | svaḥ-vidam