Sukta 2.23
देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः । उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि ॥
दे॒वाश्चि॑त्ते असुर्य॒ प्रचे॑तसो॒ बृह॑स्पते य॒ज्ञियं॑ भा॒गमा॑नशुः । उ॒स्रा इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे॑षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि ॥
devā́ś cit te asurya prá-cetaso bṛ́haspate yajñíyaṃ bhāgám ānaśuḥ | usrā́ iva sū́ryo jyótiṣā mahó víśveṣām íj janitā́ bráhmaṇām asi ||
Even the gods, O luminous Lord, the far-seeing in consciousness, have attained their sacrificial portion through you. Like the sun with the great light of the dawn-cows, you are indeed the begetter of all the mantras—source of the creative Word in every power.
दे॒वाः । चि॒त् । ते॒ । अ॒सु॒र्य॒ । प्रऽचे॑तसः । बृह॑स्पते । य॒ज्ञिय॑म् । भा॒गम् । आ॒न॒शुः॒ । उ॒स्राःऽइ॑व । सूर्यः॑ । ज्योति॑षा । म॒हः । विश्वे॑षाम् । इत् । ज॒नि॒ता । ब्रह्म॑णाम् । अ॒सि॒ ॥देवाः । चित् । ते । असुर्य । प्रचेतसः । बृहस्पते । यज्ञियम् । भागम् । आनशुः । उस्राःइव । सूर्यः । ज्योतिषा । महः । विश्वेषाम् । इत् । जनिता । ब्रह्मणाम् । असि ॥devāḥ | cit | te | asurya | pra-cetasaḥ | bṛhaspate | yajñiyam | bhāgam | ānaśuḥ | usrāḥ-iva | sūryaḥ | jyotiṣā | mahaḥ | viśveṣām | it | janitā | brahmaṇām | asi