Sukta 2.23
गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥
ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ न॑: शृ॒ण्वन्नू॒तिभि॑: सीद॒ साद॑नम् ॥
gaṇā́nāṃ tvā gaṇá-patiṃ havāmahe kavíṃ kavīnā́m upamá-śravas-tamam | jyeṣṭhá-rājaṃ bráhmaṇāṃ brahmaṇas-pate ā́ naḥ śṛṇván ūtí-bhiḥ sīda sā́danam ||
O Lord of the host of soul-powers, we call you—seer among seers, most renowned beyond all comparison. O eldest King of the mantras and the creative Word, O Master of the formative Thought: hear us and, bringing your helps, take your seat in our inner shrine.
ग॒णाना॑म् । त्वा॒ । ग॒णऽप॑तिम् । ह॒वा॒म॒हे॒ । क॒विम् । क॒वी॒नाम् । उ॒प॒मश्र॑वःऽतमम् । ज्ये॒ष्ठ॒ऽराज॑म् । ब्रह्म॑णाम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । आ । नः॒ । शृ॒ण्वन् । ऊ॒तिऽभिः॑ । सी॒द॒ । साद॑नम् ॥गणानाम् । त्वा । गणपतिम् । हवामहे । कविम् । कवीनाम् । उपमश्रवःतमम् । ज्येष्ठराजम् । ब्रह्मणाम् । ब्रह्मणः । पते । आ । नः । शृण्वन् । ऊतिभिः । सीद । सादनम् ॥gaṇānām | tvā | gaṇa-patim | havāmahe | kavim | kavīnām | upamaśravaḥ-tamam | jyeṣṭha-rājam | brahmaṇām | brahmaṇaḥ | pate | ā | naḥ | śṛṇvan | ūti-bhiḥ | sīda | sādanam