Sukta 2.23
तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः । इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम् ॥
तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां॑ गो॒त्रमु॒दसृ॑जो॒ यद॑ङ्गिरः । इन्द्रे॑ण यु॒जा तम॑सा॒ परी॑वृतं॒ बृह॑स्पते॒ निर॒पामौ॑ब्जो अर्ण॒वम् ॥
táva śriyé vy àjihīta párvato gávāṃ gotrám ud ásṛjo yád aṅgiraḥ | índreṇa yujā́ támasā párīvṛtaṃ bṛ́haspate nír apā́m aubjo arṇavám ||
For your splendour the mountain was split apart; the hidden pen of the rays was released when you, O Aṅgiras. United with Indra, you broke out from the waters the ocean wrapped in darkness—O Bṛhaspati, you brought the concealed flood into freedom.
तव॑ । श्रि॒ये । वि । अ॒जि॒ही॒त॒ । पर्व॑तः । गवा॑म् । गो॒त्रम् । उ॒त् । असृ॑जः । यत् । अ॒ङ्गि॒रः॒ । इन्द्रे॑ण । यु॒जा । तम॑सा । परि॑ऽवृतम् । बृह॑स्पते । निः । अ॒पाम् । औ॒ब्जः॒ । अ॒र्ण॒वम् ॥तव । श्रिये । वि । अजिहीत । पर्वतः । गवाम् । गोत्रम् । उत् । असृजः । यत् । अङ्गिरः । इन्द्रेण । युजा । तमसा । परिवृतम् । बृहस्पते । निः । अपाम् । औब्जः । अर्णवम् ॥tava | śriye | vi | ajihīta | parvataḥ | gavām | gotram | ut | asṛjaḥ | yat | aṅgiraḥ | indreṇa | yujā | tamasā | pari-vṛtam | bṛhaspate | niḥ | apām | aubjaḥ | arṇavam