Sukta 2.23
ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व । विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ॥
bráhmaṇaspate tvám asyá yantā́ sū́ktasya bodhi tánayaṃ ca jinva | víśvaṃ tád bhadráṃ yád ávanti devā́ bṛhád vadema vidáthe suvī́rāḥ ||
O Lord of the Word, you are the driver and guide of this well-shaped hymn; awaken to it and strengthen our lineage. All that is auspicious is what the gods protect—may we speak the Vast in the assembly, rich in inner heroes.
ब्रह्म॑णः । प॒ते॒ । त्वम् । अ॒स्य । य॒न्ता । सु॒ऽउ॒क्तस्य॑ । बो॒धि॒ । तन॑यम् । च॒ । जि॒न्व॒ । विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥ब्रह्मणः । पते । त्वम् । अस्य । यन्ता । सुउक्तस्य । बोधि । तनयम् । च । जिन्व । विश्वम् । तत् । भद्रम् । यत् । अवन्ति । देवाः । बृहत् । वदेम । विदथे । सुवीराः ॥brahmaṇaḥ | pate | tvam | asya | yantā | su-uktasya | bodhi | tanayam | ca | jinva | viśvam | tat | bhadram | yat | avanti | devāḥ | bṛhat | vadema | vidathe | su-vīrāḥ