Sukta 2.23
विश्वेभ्यो हि त्वा भुवनेभ्यस्परि त्वष्टाजनत्साम्नःसाम्नः कविः । स ऋणचिदृणया ब्रह्मणस्पतिर्द्रुहो हन्ता मह ऋतस्य धर्तरि ॥
विश्वे॑भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त्साम्न॑:साम्नः क॒विः । स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो ह॒न्ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ॥
víśvebhyo hí tvā bhúvanebhyaḥ párí tváṣṭā́janat sāmnáḥ-sāmnaḥ kavíḥ | sá ṛṇácid ṛṇayā́ brahmaṇáspatir druhó hantā mahá ṛtásya dhártarí ||
From all the worlds, encompassing them, Tvaṣṭṛ fashioned you—the seer of seers, the chant within chant. This Lord of the Word moves even among the seekers bound to right movement; he is the slayer of treachery, great upholder of the Vast Right.
विश्वे॑भ्यः । हि । त्वा॒ । भुव॑नेभ्यः । परि॑ । त्वष्टा॑ । अज॑नत् । साम्नः॑ऽसाम्नः । क॒विः । सः । ऋ॒ण॒ऽचित् । ऋ॒ण॒ऽयाः । ब्रह्म॑णः । पतिः॑ । द्रु॒हः । ह॒न्ता । म॒हः । ऋ॒तस्य॑ । ध॒र्तरि॑ ॥विश्वेभ्यः । हि । त्वा । भुवनेभ्यः । परि । त्वष्टा । अजनत् । साम्नःसाम्नः । कविः । सः । ऋणचित् । ऋणयाः । ब्रह्मणः । पतिः । द्रुहः । हन्ता । महः । ऋतस्य । धर्तरि ॥viśvebhyaḥ | hi | tvā | bhuvanebhyaḥ | pari | tvaṣṭā | ajanat | sāmnaḥ-sāmnaḥ | kaviḥ | saḥ | ṛṇa-cit | ṛṇa-yāḥ | brahmaṇaḥ | patiḥ | druhaḥ | hantā | mahaḥ | ṛtasya | dhartari