Sukta 2.23
बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥
बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु । यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥
bṛ́haspate áti yád aryó árhād dyumád vibhā́ti krátumaj jáneṣu | yád dī́dayac chávasa ṛtaprajāta tád asmā́su dráviṇaṃ dhehi citrám ||
O Bṛhaspati, when the noble one shines beyond the ordinary deserving, luminous and will-filled among the peoples—when by your force you make him blaze forth, O born of the Right—place in us that many-formed treasure of being.
बृह॑स्पते । अति॑ । यत् । अ॒र्यः । अर्हा॑त् । द्यु॒ऽमत् । वि॒ऽभाति॑ । क्रतु॑ऽमत् । जने॑षु । यत् । दी॒दय॑त् । शव॑सा । ऋ॒त॒ऽप्र॒जा॒त॒ । तत् । अ॒स्मासु॑ । द्रवि॑णम् । धे॒हि॒ । चि॒त्रम् ॥बृहस्पते । अति । यत् । अर्यः । अर्हात् । द्युमत् । विभाति । क्रतुमत् । जनेषु । यत् । दीदयत् । शवसा । ऋतप्रजात । तत् । अस्मासु । द्रविणम् । धेहि । चित्रम् ॥bṛhaspate | ati | yat | aryaḥ | arhāt | dyu-mat | vi-bhāti | kratu-mat | janeṣu | yat | dīdayat | śavasā | ṛta-prajāta | tat | asmāsu | draviṇam | dhehi | citram