Sukta 2.23
तेजिष्ठया तपनी रक्षसस्तप ये त्वा निदे दधिरे दृष्टवीर्यम् । आविस्तत्कृष्व यदसत्त उक्थ्यं बृहस्पते वि परिरापो अर्दय ॥
तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा॑ नि॒दे द॑धि॒रे दृ॒ष्टवी॑र्यम् । आ॒विस्तत्कृ॑ष्व॒ यदस॑त्त उ॒क्थ्यं१॒॑ बृह॑स्पते॒ वि प॑रि॒रापो॑ अर्दय ॥
téjiṣṭhayā tapanī́ rakṣásaḥ tapa yé tvā nidé dadhiré dṛṣṭávīryam | āvís tát kṛṣva yád ásat te ukthyàm bṛ́haspate ví parirā́po ardaya ||
With your most keen-burning heat, scorch the powers of darkness who set you in blame, though your hero-force is manifest. Make visible that which in us was not yet; O Bṛhaspati, crush and drive away the enclosing assailments.
तेजि॑ष्ठया । त॒प॒नी । र॒क्षसः॑ । त॒प॒ । ये । त्वा॒ । नि॒दे । द॒धि॒रे । दृ॒ष्टऽवी॑र्यम् । आ॒विः । तत् । कृ॒ष्व॒ । यत् । अस॑त् । ते॒ । उ॒क्थ्य॑म् । बृह॑स्पते । वि । प॒रि॒ऽरपः॑ । अ॒र्द॒य॒ ॥तेजिष्ठया । तपनी । रक्षसः । तप । ये । त्वा । निदे । दधिरे । दृष्टवीर्यम् । आविः । तत् । कृष्व । यत् । असत् । ते । उक्थ्यम् । बृहस्पते । वि । परिरपः । अर्दय ॥tejiṣṭhayā | tapanī | rakṣasaḥ | tapa | ye | tvā | nide | dadhire | dṛṣṭa-vīryam | āviḥ | tat | kṛṣva | yat | asat | te | ukthyam | bṛhaspate | vi | pari-rapaḥ | ardaya