Sukta 2.23
भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनंधनम् । विश्वा इदर्यो अभिदिप्स्वो मृधो बृहस्पतिर्वि ववर्हा रथाँ इव ॥
भरे॑षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गन्ता॒ वाजे॑षु॒ सनि॑ता॒ धनं॑धनम् । विश्वा॒ इद॒र्यो अ॑भिदि॒प्स्वो॒३॒॑ मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथाँ॑ इव ॥
bharéṣu hávyo námasopasádyó gántā vā́jeṣu sánitā dhánaṃdhanam | víśvā íd aryó abhídipsvo mṛ́dho bṛ́haspátir ví vavarhā ráthāṃ iva ||
In the press of the struggle he is to be invoked; by reverence he is to be approached. He comes in the gaining of plenitudes, a winner of riches upon riches. All the assaults of the envious assailant Bṛhaspati drives apart, as one clears obstacles like chariots pushing through.
भरे॑षु । हव्य॑ । नम॑सा । उ॒प॒ऽसद्यः॑ । गन्ता॑ । वाजे॑षु । सनि॑ता । धन॑म्ऽधनम् । विश्वाः॑ । इत् । अ॒र्यः । अ॒भि॒ऽदि॒प्स्वः॑ । मृधः॑ । बृह॒स्पतिः॑ । वि । व॒व॒र्ह॒ । रथा॑न्ऽइव ॥भरेषु । हव्य । नमसा । उपसद्यः । गन्ता । वाजेषु । सनिता । धनम्धनम् । विश्वाः । इत् । अर्यः । अभिदिप्स्वः । मृधः । बृहस्पतिः । वि । ववर्ह । रथान्इव ॥bhareṣu | havya | namasā | upa-sadyaḥ | gantā | vājeṣu | sanitā | dhanam-dhanam | viśvāḥ | it | aryaḥ | abhi-dipsvaḥ | mṛdhaḥ | bṛhaspatiḥ | vi | vavarha | rathān-iva