Sukta 2.23
अदेवेन मनसा यो रिषण्यति शासामुग्रो मन्यमानो जिघांसति । बृहस्पते मा प्रणक्तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ॥
अदे॑वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां॑सति । बृह॑स्पते॒ मा प्रण॒क्तस्य॑ नो व॒धो नि क॑र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः ॥
adévena mánasā yó riṣaṇyáti śāsā́m ugró mányamāno jíghāṃsati | bṛ́haspate mā́ práṇaktasya no vadhó ní karma manyúṃ durévasya śárdhataḥ ||
Whoever with a godless mind assails us, fierce in his rule, thinking himself mighty and seeking to strike—O Bṛhaspati, let not his blow reach us; cast down the wrath of ill-will and its hostile band.
अदे॑वेव । मन॑सा । यः । रि॒ष॒ण्यति॑ । शा॒साम् । उ॒ग्रः । मय॑मानः । जिघां॑सति । बृह॑स्पते । मा । प्रण॑क् । तस्य॑ । नः॒ । व॒धः । नि । क॒र्म॒ । म॒न्युम् । दुः॒ऽएव॑स्य । शर्ध॑तः ॥अदेवेव । मनसा । यः । रिषण्यति । शासाम् । उग्रः । मयमानः । जिघांसति । बृहस्पते । मा । प्रणक् । तस्य । नः । वधः । नि । कर्म । मन्युम् । दुःएवस्य । शर्धतः ॥adeveva | manasā | yaḥ | riṣaṇyati | śāsām | ugraḥ | mayamānaḥ | jighāṃsati | bṛhaspate | mā | praṇak | tasya | naḥ | vadhaḥ | ni | karma | manyum | duḥ-evasya | śardhataḥ