Sukta 2.23
अनानुदो वृषभो जग्मिराहवं निष्टप्ता शत्रुं पृतनासु सासहिः । असि सत्य ऋणया ब्रह्मणस्पत उग्रस्य चिद्दमिता वीळुहर्षिणः ॥
अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः । असि॑ स॒त्य ऋ॑ण॒या ब्र॑ह्मणस्पत उ॒ग्रस्य॑ चिद्दमि॒ता वी॑ळुह॒र्षिण॑: ॥
anānudó vṛ́ṣabho jagmí rāhávaṃ níṣṭaptā śátruṃ pṛ́tanāsu sāsahíḥ | ási satyá ṛṇayā́ brahmaṇaspata ugrásya cid damitā́ vīḷuhárṣiṇaḥ ||
O Lord of the Word, you are the unyielding Bull who goes forth to the call of the inner battle; you burn down the adversary and prevail in the clashes. You are the true one, a mover among the seekers of the right path; even the violent force you tame, O rousing power that makes the strong exult.
अ॒न॒नु॒ऽदः । वृ॒ष॒भः । जग्मिः॑ । आ॒ऽह॒वम् । निःऽत॑प्ता । शत्रु॑म् । पृत॑नासु । स॒स॒हिः । असि॑ । स॒त्यः । ऋ॒ण॒ऽयाः । ब्र॒ह्म॒णः॒ । प॒ते॒ । उ॒ग्रस्य॑ । चि॒त् । द॒मि॒ता । वी॒ळु॒ऽह॒र्षिणः॑ ॥अननुदः । वृषभः । जग्मिः । आहवम् । निःतप्ता । शत्रुम् । पृतनासु । ससहिः । असि । सत्यः । ऋणयाः । ब्रह्मणः । पते । उग्रस्य । चित् । दमिता । वीळुहर्षिणः ॥ananu-daḥ | vṛṣabhaḥ | jagmiḥ | āhavam | niḥ-taptā | śatrum | pṛtanāsu | sasahiḥ | asi | satyaḥ | ṛṇa-yāḥ | brahmaṇaḥ | pate | ugrasya | cit | damitā | vīḷu-harṣiṇaḥ