Sukta 2.22
साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः । दाता राधः स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥
सा॒कं जा॒तः क्रतु॑ना सा॒कमोज॑सा ववक्षिथ सा॒कं वृ॒द्धो वी॒र्यै॑: सास॒हिर्मृधो॒ विच॑र्षणिः । दाता॒ राध॑: स्तुव॒ते काम्यं॒ वसु॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दु॑: ॥
sā́kaṃ jā́taḥ krátunā sā́kam ójasā vavakṣitha sā́kaṃ vṛddhó vī́ryaiḥ sāsahír mṛ́dho vícarṣaṇiḥ | dātā́ rā́dhaḥ stuvaté kā́myaṃ vásu sá enaṃ saścad devó deváṃ satyám índraṃ satyá índuḥ ||
Born together with will, together with force you have grown; together you have increased by heroic powers, conquering the assaults, master of men. Giver of bounty, to the praiser you grant the desired treasure; and the true Soma follows the true Indra, god cleaving to god.
सा॒कम् । जा॒तः । क्रतु॑ना । सा॒कम् । ओज॑सा । व॒व॒क्षि॒थ॒ । सा॒कम् । वृ॒द्धः । वी॒र्यैः॑ । स॒स॒हिः । मृधः॑ । विच॑र्षणिः । दाता॑ । राधः॑ । स्तु॒व॒ते । काम्य॑म् । वसु॑ । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥साकम् । जातः । क्रतुना । साकम् । ओजसा । ववक्षिथ । साकम् । वृद्धः । वीर्यैः । ससहिः । मृधः । विचर्षणिः । दाता । राधः । स्तुवते । काम्यम् । वसु । सः । एनम् । सश्चत् । देवः । देवम् । सत्यम् । इन्द्रम् । सत्यः । इन्दुः ॥sākam | jātaḥ | kratunā | sākam | ojasā | vavakṣitha | sākam | vṛddhaḥ | vīryaiḥ | sasahiḥ | mṛdhaḥ | vicarṣaṇiḥ | dātā | rādhaḥ | stuvate | kāmyam | vasu | saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ