Sukta 2.22
तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् । यद्देवस्य शवसा प्रारिणा असुं रिणन्नपः । भुवद्विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम् ॥
तव॒ त्यन्नर्यं॑ नृ॒तोऽप॑ इन्द्र प्रथ॒मं पू॒र्व्यं दि॒वि प्र॒वाच्यं॑ कृ॒तम् । यद्दे॒वस्य॒ शव॑सा॒ प्रारि॑णा॒ असुं॑ रि॒णन्न॒पः । भुव॒द्विश्व॑म॒भ्यादे॑व॒मोज॑सा वि॒दादूर्ज॑ं श॒तक्र॑तुर्वि॒दादिष॑म् ॥
táva tyán nár yaṃ nṛtó ’pa índra prathamáṃ pū́rvyaṃ diví prá-vācyaṃ kṛtám | yád devásya śávasā prá ariṇā ásuṃ riṇánn ápaḥ | bhúvad víśvam abhý ā́devam ójasā vidā́d ūrjáṃ śatákratur vidā́d íṣam ||
Yours is that manly deed, O Indra, first and ancient, to be proclaimed in heaven: when by the god’s might you set free the life-breath, breaking open the waters. Then all that was undivine became divine by your force; O hundred-powered, you found the nourishment and you found the impulsion.
तव॑ । त्यत् । नर्य॑म् । नृ॒तो॒ इति॑ । अपः॑ । इ॒न्द्र॒ । प्र॒थ॒मम् । पू॒र्व्यम् । दि॒वि । प्र॒ऽवाच्य॑म् । कृ॒तम् । यत् । दे॒वस्य॑ । शव॑सा । प्र । अरि॑णा । असु॑म् । रि॒णन् । अ॒पः । भुव॑त् । विश्व॑म् । अ॒भि । अदे॑वम् । ओज॑सा । वि॒दात् । ऊर्ज॑म् । श॒तऽक्र॑तुः । वि॒दात् । इष॑म् ॥तव । त्यत् । नर्यम् । नृतो इति । अपः । इन्द्र । प्रथमम् । पूर्व्यम् । दिवि । प्रवाच्यम् । कृतम् । यत् । देवस्य । शवसा । प्र । अरिणा । असुम् । रिणन् । अपः । भुवत् । विश्वम् । अभि । अदेवम् । ओजसा । विदात् । ऊर्जम् । शतक्रतुः । विदात् । इषम् ॥tava | tyat | naryam | nṛtaḥ | apa | indra | prathamam | pūrvyam | divi | pra-vācyam | kṛtam | yat | devasya | śavasā | pra | ariṇā | asum | riṇan | apaḥ | bhuvat | viśvam | abhi | adevam | ojasā | vidāt | ūrjam | śata-kratuḥ | vidāt | iṣam