Sukta 2.22
अध त्विषीमाँ अभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे । अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥
अध॒ त्विषी॑माँ अ॒भ्योज॑सा॒ क्रिविं॑ यु॒धाभ॑व॒दा रोद॑सी अपृणदस्य म॒ज्मना॒ प्र वा॑वृधे । अध॑त्ता॒न्यं ज॒ठरे॒ प्रेम॑रिच्यत॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दु॑: ॥
ádha tviṣī́māṃ abhý ójasā kríviṃ yudhā́bhavad ā́ ródasī apṛṇad asya májmanā prá vāvṛdhe | ádhattānyáṃ jaṭháre préṃ aricyata sá enaṃ saścad devó deváṃ satyám índraṃ satyá índuḥ ||
Then, full of radiance, he confronted the Krivi with force and became battle; he filled the two worlds with his greatness and grew mightily. He set another in his belly and poured him forth; and the true Soma followed the true Indra, god cleaving to god.
अध॑ । त्विषि॑ऽमान् । अ॒भि । ओज॑सा । क्रिवि॑म् । यु॒धा । अ॒भ॒व॒त् । आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । अ॒स्य॒ । म॒ज्मना॑ । प्र । व॒वृ॒धे॒ । अध॑त्त । अ॒न्यम् । ज॒ठरे॑ । प्र । ई॒म् । अ॒रि॒च्य॒त॒ । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥अध । त्विषिमान् । अभि । ओजसा । क्रिविम् । युधा । अभवत् । आ । रोदसी इति । अपृणत् । अस्य । मज्मना । प्र । ववृधे । अधत्त । अन्यम् । जठरे । प्र । ईम् । अरिच्यत । सः । एनम् । सश्चत् । देवः । देवम् । सत्यम् । इन्द्रम् । सत्यः । इन्दुः ॥adha | tviṣi-mān | abhi | ojasā | krivim | yudhā | abhavat | ā | rodasī iti | apṛṇat | asya | majmanā | pra | vavṛdhe | adhatta | anyam | jaṭhare | pra | īm | aricyata | saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ