Sukta 2.22
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत् । स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥
त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाव॑शत् । स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दु॑: ॥
trí-kadrukeṣu mahiṣó yávāśiraṃ tuviśúṣmas tṛ́pat sómam apibat víṣṇunā sutáṃ yáthāvaśat | sá īṃ mamāda máhi kárma kártave mahā́m urúṃ sá enaṃ saścad devó deváṃ satyám índraṃ satyá índuḥ ||
In the three Kadru presses the mighty one, of vast force, drank the Soma mixed with barley, pressed with Vishnu, as he willed. Then he exulted to accomplish the great work, the wide and mighty; and the true Soma followed the true Indra, god cleaving to god.
त्रिऽक॑द्रुकेषु । म॒हि॒षः । यव॑ऽआशिरम् । तु॒वि॒ऽशुष्मः॑ । तृ॒पत् । सोम॑म् । अ॒पि॒ब॒त् । विष्णु॑ना । सु॒तम् । यथा॑ । अव॑शत् । सः । ई॒म् । म॒मा॒द॒ । महि॑ । कर्म॑ । कर्त॑वे । म॒हाम् । उ॒रुम् । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥त्रिकद्रुकेषु । महिषः । यवआशिरम् । तुविशुष्मः । तृपत् । सोमम् । अपिबत् । विष्णुना । सुतम् । यथा । अवशत् । सः । ईम् । ममाद । महि । कर्म । कर्तवे । महाम् । उरुम् । सः । एनम् । सश्चत् । देवः । देवम् । सत्यम् । इन्द्रम् । सत्यः । इन्दुः ॥tri-kadrukeṣu | mahiṣaḥ | yava-āśiram | tuvi-śuṣmaḥ | tṛpat | somam | apibat | viṣṇunā | sutam | yathā | avaśat | saḥ | īm | mamāda | mahi | karma | kartave | mahām | urum | saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ