Sukta 2.20
स वृत्रहेन्द्रः कृष्णयोनीः पुरंदरो दासीरैरयद्वि । अजनयन्मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत् ॥
स वृ॑त्र॒हेन्द्र॑: कृ॒ष्णयो॑नीः पुरंद॒रो दासी॑रैरय॒द्वि । अज॑नय॒न्मन॑वे॒ क्षाम॒पश्च॑ स॒त्रा शंसं॒ यज॑मानस्य तूतोत् ॥
sá vṛtra-héndraḥ kṛṣṇá-yonīḥ puram-daró dā́sīr airayad ví | ájanayan mánave kṣā́ma-paś ca satrā́ śáṃsaṃ yájamānasya tū́tot ||
He, Indra the slayer of Vṛtra, the breaker of strongholds, drove apart the Dāsī powers that dwell in darkness. He brought forth for Manu the fields and the waters, and continually impelled the praise of the sacrificer.
सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । कृ॒ष्णऽयो॑नीः । पु॒र॒म्ऽद॒रः । दासीः॑ । ऐ॒र॒य॒त् । वि । अज॑नयत् । मन॑वे । क्षा॒म॒ऽपः । च॒ । स॒त्रा । शंस॑म् । यज॑मानस्य । तू॒तो॒त् ॥सः । वृत्रहा । इन्द्रः । कृष्णयोनीः । पुरम्दरः । दासीः । ऐरयत् । वि । अजनयत् । मनवे । क्षामपः । च । सत्रा । शंसम् । यजमानस्य । तूतोत् ॥saḥ | vṛtra-hā | indraḥ | kṛṣṇa-yonīḥ | puram-daraḥ | dāsīḥ | airayat | vi | ajanayan | manave | kṣāma-paḥ | ca | satrā | śaṃsam | yajamānasya | tūtot