Sukta 2.20
तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ । प्रति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून्पुर आयसीर्नि तारीत् ॥
तस्मै॑ तव॒स्य१॒॑मनु॑ दायि स॒त्रेन्द्रा॑य दे॒वेभि॒रर्ण॑सातौ । प्रति॒ यद॑स्य॒ वज्रं॑ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न्पुर॒ आय॑सी॒र्नि ता॑रीत् ॥
tásmai tavasyám ánu dāyi satréndrā́ya devébhir árṇa-sātau | práti yád asyá vájraṃ bāhvór dhúr hatvī́ dásyūn púra ā́yasīr ní tārīt ||
To him, to Indra, strength was given in the common battle with the gods for the winning of the flood. When they set his thunderbolt into his arms, he slew the Dasyus and brought down the iron strongholds.
तस्मै॑ । त॒व॒स्य॑म् । अनु॑ । दा॒यि॒ । स॒त्रा । इन्द्रा॑य । दे॒वेभिः॑ । अर्ण॑ऽसातौ । प्रति॑ । यत् । अ॒स्य॒ । वज्र॑म् । बा॒ह्वोः । धुः । ह॒त्वी । दस्यू॑न् । पुरः॑ । आय॑सीः । नि । ता॒री॒त् ॥तस्मै । तवस्यम् । अनु । दायि । सत्रा । इन्द्राय । देवेभिः । अर्णसातौ । प्रति । यत् । अस्य । वज्रम् । बाह्वोः । धुः । हत्वी । दस्यून् । पुरः । आयसीः । नि । तारीत् ॥tasmai | tavasyam | anu | dāyi | satrā | indrāya | devebhiḥ | arṇa-sātau | prati | yat | asya | vajram | bāhvoḥ | dhuḥ | hatvī | dasyūn | puraḥ | āyasīḥ | ni | tārīt