Sukta 2.20
स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन्मनुषे दस्मतमः । अव प्रियमर्शसानस्य साह्वाञ्छिरो भरद्दासस्य स्वधावान् ॥
स ह॑ श्रु॒त इन्द्रो॒ नाम॑ दे॒व ऊ॒र्ध्वो भु॑व॒न्मनु॑षे द॒स्मत॑मः । अव॑ प्रि॒यम॑र्शसा॒नस्य॑ सा॒ह्वाञ्छिरो॑ भरद्दा॒सस्य॑ स्व॒धावा॑न् ॥
sá ha śṛutá índro nā́ma devá ūrdhvó bhúvan mánuṣe dasmátamaḥ | áva priyám arśasā́nasyá sā́hvāñ chíraḥ bharad dā́sasya svadhā́vān ||
He indeed is famed—Indra by name—the god who rises high, most wondrous for man. The self-powered one bore down the head of the Dāsa Arśasāna, the violent, though dear (to his own).
सः । ह॒ । शृउ॒तः । इन्द्रः॑ । नाम॑ । दे॒वः । ऊ॒र्ध्वः । भु॒व॒न् । मनु॑षे । द॒स्मऽत॑मः । अव॑ । प्रि॒यम् । अ॒र्श॒सा॒नस्य॑ । शा॒ह्वान् । शिरः॑ । भ॒र॒त् । दा॒सस्य॑ । स्व॒धाऽवा॑न् ॥सः । ह । शृउतः । इन्द्रः । नाम । देवः । ऊर्ध्वः । भुवन् । मनुषे । दस्मतमः । अव । प्रियम् । अर्शसानस्य । शाह्वान् । शिरः । भरत् । दासस्य । स्वधावान् ॥saḥ | ha | śṛutaḥ | indraḥ | nāma | devaḥ | ūrdhvaḥ | bhuvan | manuṣe | dasma-tamaḥ | ava | priyam | arśasānasya | śāhvān | śiraḥ | bharat | dāsasya | svadhāvān