Sukta 2.20
सो अङ्गिरसामुचथा जुजुष्वान्ब्रह्मा तूतोदिन्द्रो गातुमिष्णन् । मुष्णन्नुषसः सूर्येण स्तवानश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥
सो अङ्गि॑रसामु॒चथा॑ जुजु॒ष्वान्ब्रह्मा॑ तूतो॒दिन्द्रो॑ गा॒तुमि॒ष्णन् । मु॒ष्णन्नु॒षस॒: सूर्ये॑ण स्त॒वानश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥
só aṅgírasām ucáthā jujuṣvā́n brahmā́ tū́tod índro gātúm iṣṇán | múṣṇann uṣásaḥ sū́ryeṇa stavā́n áśnasya cic chiśnathat pū́rvyāṇi ||
He, accepting the chants of the Aṅgirases, Indra the formulator struck open the path, impelling the way. Stealing away the Dawns by the Sun, praising, he shattered even the ancient strongholds of the Rock.
सः । अङ्गि॑रसाम् । उ॒चथा॑ । जु॒जु॒ष्वान् । ब्रह्मा॑ । तू॒तो॒त् । इन्द्रः॑ । गा॒तुम् । इ॒ष्णन् । मु॒ष्णन् । उ॒षसः॑ । सूर्ये॑ण । स्त॒वान् । अश्न॑स्य । चि॒त् । शि॒श्न॒थ॒त् । पू॒र्व्याणि॑ ॥सः । अङ्गिरसाम् । उचथा । जुजुष्वान् । ब्रह्मा । तूतोत् । इन्द्रः । गातुम् । इष्णन् । मुष्णन् । उषसः । सूर्येण । स्तवान् । अश्नस्य । चित् । शिश्नथत् । पूर्व्याणि ॥saḥ | aṅgirasām | ucathā | jujuṣvān | brahmā | tūtot | indraḥ | gātum | iṣṇan | muṣṇan | uṣasaḥ | sūryeṇa | stavān | aśnasya | cit | śiśnathat | pūrvyāṇi