Sukta 2.20
तमु स्तुष इन्द्रं तं गृणीषे यस्मिन्पुरा वावृधुः शाशदुश्च । स वस्वः कामं पीपरदियानो ब्रह्मण्यतो नूतनस्यायोः ॥
तमु॑ स्तुष॒ इन्द्रं॒ तं गृ॑णीषे॒ यस्मि॑न्पु॒रा वा॑वृ॒धुः शा॑श॒दुश्च॑ । स वस्व॒: कामं॑ पीपरदिया॒नो ब्र॑ह्मण्य॒तो नूत॑नस्या॒योः ॥
tám u stuṣé índraṃ táṃ gṛṇīṣe yásmin purā́ vāvṛdhúḥ śā́śaduś ca | sá vásvaḥ kā́maṃ pī́parad iyānó brahmaṇyató nū́tanasya ā́yoḥ ||
Him I praise—Indra; him I hymn—he in whom the ancients grew and found firm abiding. Moving still, he fills the desire for the wealth of being of the one who seeks the brahman, of the ever-new Arya.
तम् । ऊँ॒ इति॑ । स्तु॒षे॒ । इन्द्र॑म् । तम् । गृ॒णी॒षे॒ । यस्मि॑न् । पु॒रा । व॒वृ॒धुः । शा॒श॒दुः । च॒ । सः । वस्वः॑ । काम॑म् । पी॒प॒र॒त् । इ॒या॒नः । ब्र॒ह्म॒ण्य॒तः । नूत॑नस्य । आ॒योः ॥तम् । ऊँ इति । स्तुषे । इन्द्रम् । तम् । गृणीषे । यस्मिन् । पुरा । ववृधुः । शाशदुः । च । सः । वस्वः । कामम् । पीपरत् । इयानः । ब्रह्मण्यतः । नूतनस्य । आयोः ॥tam | oṃ iti | stuṣe | indram | tam | gṛṇīṣe | yasmin | purā | vavṛdhuḥ | śāśaduḥ | ca | saḥ | vasvaḥ | kāmam | pīparat | iyānaḥ | brahmaṇyataḥ | nūtanasya | āyoḥ