Sukta 2.20
स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता । यः शंसन्तं यः शशमानमूती पचन्तं च स्तुवन्तं च प्रणेषत् ॥
स नो॒ युवेन्द्रो॑ जो॒हूत्र॒: सखा॑ शि॒वो न॒राम॑स्तु पा॒ता । यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती पच॑न्तं च स्तु॒वन्तं॑ च प्र॒णेष॑त् ॥
sá no yúvendro johū́traḥ sákhā śivó narā́m astu pātā́ | yáḥ śáṃsantaṃ yáḥ śaśamānám ūtī́ pácantaṃ ca stuvántaṃ ca prá-neṣat ||
May youthful Indra be for us the invoking friend, gracious, the protector of men—he who leads forward with his help the one who proclaims, the one who toils, the one who prepares, and the one who praises.
सः । नः॒ । युवा॑ । इन्द्रः॑ । जो॒हूत्रः॑ । सखा॑ । शि॒वः । न॒राम् । अ॒स्तु॒ । पा॒ता । यः । शंस॑न्तम् । यः । श॒श॒मा॒नम् । ऊ॒ती । पच॑न्तम् । च॒ । स्तु॒वन्त॑म् । च॒ । प्र॒ऽनेष॑त् ॥सः । नः । युवा । इन्द्रः । जोहूत्रः । सखा । शिवः । नराम् । अस्तु । पाता । यः । शंसन्तम् । यः । शशमानम् । ऊती । पचन्तम् । च । स्तुवन्तम् । च । प्रनेषत् ॥saḥ | naḥ | yuvā | indraḥ | johūtraḥ | sakhā | śivaḥ | narām | astu | pātā | yaḥ | śaṃsantam | yaḥ | śaśamānam | ūtī | pacantam | ca | stuvantam | ca | pra-neṣat