Sukta 2.20
त्वं न इन्द्र त्वाभिरूती त्वायतो अभिष्टिपासि जनान् । त्वमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति त्वा ॥
त्वं न॑ इन्द्र॒ त्वाभि॑रू॒ती त्वा॑य॒तो अ॑भिष्टि॒पासि॒ जना॑न् । त्वमि॒नो दा॒शुषो॑ वरू॒तेत्थाधी॑र॒भि यो नक्ष॑ति त्वा ॥
tváṃ na indra tvā́bhir ūtī́ tvā́yato abhiṣṭi-pā́si jánān | tvám íno dāśúṣo varūtā́ ítthādhīr abhí yó nákṣati tvā́ ||
You, O Indra, by your helps guard the peoples who move towards you, a protector of their sought-for good. You are the shelter of the giver; thus, with right seeing, you come near to him who reaches for you.
त्वम् । नः॒ । इ॒न्द्र॒ । त्वाभिः॑ । ऊ॒ती । त्वा॒ऽय॒तः । अ॒भि॒ष्टि॒ऽपा । अ॒सि॒ । जना॑न् । त्वम् । इ॒नः । दा॒शुषः॑ । व॒रू॒ता । इ॒त्थाऽधीः॑ । अ॒भि । यः । नक्ष॑ति । त्वा॒ ॥त्वम् । नः । इन्द्र । त्वाभिः । ऊती । त्वायतः । अभिष्टिपा । असि । जनान् । त्वम् । इनः । दाशुषः । वरूता । इत्थाधीः । अभि । यः । नक्षति । त्वा ॥tvam | naḥ | indra | tvābhiḥ | ūtī | tvāyataḥ | abhiṣṭi-pā | asi | janān | tvam | inaḥ | dāśuṣaḥ | varūtā | itthādhīḥ | abhi | yaḥ | nakṣati | tvā