Sukta 2.20
वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर्न रथम् । विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन् ॥
व॒यं ते॒ वय॑ इन्द्र वि॒द्धि षु ण॒: प्र भ॑रामहे वाज॒युर्न रथ॑म् । वि॒प॒न्यवो॒ दीध्य॑तो मनी॒षा सु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒ नॄन् ॥
vayáṃ te váya indra víddhi ṣú ṇaḥ prá bharāmahe vāja-yúr ná rátham | vipanyávo dī́dhyato manīṣā́ sumnám íyakṣantas tvā́vato nṝ́n ||
Know, O Indra, our strength for you; we bring it forward like a chariot eager for plenitude of force. We who are seekers of the luminous word, kindling by thought, long to win your grace—men upheld by you.
व॒यम् । ते॒ । वयः॑ । इ॒न्द्र॒ । वि॒द्धि । सु । नः॒ । प्र । भ॒रा॒म॒हे॒ । वा॒ज॒ऽयुः । न । रथ॑म् । वि॒प॒न्यवः॑ । दीध्य॑तः । म॒नी॒षा । सु॒म्नम् । इय॑क्षन्तः । त्वाऽव॑तः । नॄन् ॥वयम् । ते । वयः । इन्द्र । विद्धि । सु । नः । प्र । भरामहे । वाजयुः । न । रथम् । विपन्यवः । दीध्यतः । मनीषा । सुम्नम् । इयक्षन्तः । त्वावतः । नॄन् ॥vayam | te | vayaḥ | indra | viddhi | su | ṇaḥ | pra | bharāmahe | vāja-yuḥ | na | ratham | vipanyavaḥ | dīdhyataḥ | manīṣā | sumnam | iyakṣantaḥ | tvāvataḥ | nṝn