Sukta 2.2
एवा नो अग्ने अमृतेषु पूर्व्य धीष्पीपाय बृहद्दिवेषु मानुषा । दुहाना धेनुर्वृजनेषु कारवे त्मना शतिनं पुरुरूपमिषणि ॥
ए॒वा नो॑ अग्ने अ॒मृते॑षु पूर्व्य॒ धीष्पी॑पाय बृ॒हद्दि॑वेषु॒ मानु॑षा । दुहा॑ना धे॒नुर्वृ॒जने॑षु का॒रवे॒ त्मना॑ श॒तिनं॑ पुरु॒रूप॑मि॒षणि॑ ॥
evā́ no agne amṛ́teṣu pū́rvya dhī́ḥ pīpāya bṛhád-diveṣu mā́nuṣā | dúhānā dhenúr vṛ́janeṣu kā́rave tmánā śatínaṃ puru-rū́pam íṣaṇi ||
So, O Agni, in the immortal ranges, O ancient One, nourish our thought in the wide heavens of the human being. Like a milch-cow, yielding in the fields of our labor, may she—by her own power—milk out for the doer a hundredfold nourishment, manifold in form, the impulse of increase.
ए॒व । नः॒ । अ॒ग्ने॒ । अ॒मृते॑षु । पू॒र्व्य॒ । धीः । पी॒पा॒य॒ । बृ॒हत्ऽदि॑वेषु । मानु॑षा । दुहा॑ना । धे॒नुः । वृ॒जने॑षु । का॒रवे॑ । त्मना॑ । श॒तिन॑म् । पु॒रु॒ऽरूप॑म् । इ॒षणि॑ ॥एव । नः । अग्ने । अमृतेषु । पूर्व्य । धीः । पीपाय । बृहत्दिवेषु । मानुषा । दुहाना । धेनुः । वृजनेषु । कारवे । त्मना । शतिनम् । पुरुरूपम् । इषणि ॥eva | naḥ | agne | amṛteṣu | pūrvya | dhīḥ | pīpāya | bṛhat-diveṣu | mānuṣā | duhānā | dhenuḥ | vṛjaneṣu | kārave | tmanā | śatinam | puru-rūpam | iṣaṇi