Sukta 2.2
स इधान उषसो राम्या अनु स्वर्ण दीदेदरुषेण भानुना । होत्राभिरग्निर्मनुषः स्वध्वरो राजा विशामतिथिश्चारुरायवे ॥
स इ॑धा॒न उ॒षसो॒ राम्या॒ अनु॒ स्व१॒॑र्ण दी॑देदरु॒षेण॑ भा॒नुना॑ । होत्रा॑भिर॒ग्निर्मनु॑षः स्वध्व॒रो राजा॑ वि॒शामति॑थि॒श्चारु॑रा॒यवे॑ ॥
sá idhāná uṣásaḥ rā́myāḥ ánu svàrṇá dī́ded aruṣéṇa bhānúnā | hótrābhir agnír mánuṣaḥ sv-adhvaró rājā́ viśā́m átithiś cā́rur ā́yave ||
Kindled, he shines following the lovely Dawns, like the sun’s own light, with his ruddy beam. By the priestly powers of invocation, Agni becomes for the human the right-guided sacrifice; king of the peoples, he is the welcome guest, beautiful to the seeker of plenitude.
सः । इ॒धा॒नः । उ॒षसः॑ । राम्याः॑ । अनु॑ । स्वः॑ । न । दी॒दे॒त् । अ॒रु॒षेण॑ । भा॒नुना॑ । होत्रा॑भिः । अ॒ग्निः । मनु॑षः । सु॒ऽअ॒ध्व॒रः । राजा॑ । वि॒शाम् । अति॑थिः । चारुः॑ । आ॒यवे॑ ॥सः । इधानः । उषसः । राम्याः । अनु । स्वः । न । दीदेत् । अरुषेण । भानुना । होत्राभिः । अग्निः । मनुषः । सुअध्वरः । राजा । विशाम् । अतिथिः । चारुः । आयवे ॥saḥ | idhānaḥ | uṣasaḥ | rāmyāḥ | anu | svaḥ | na | dīdet | aruṣeṇa | bhānunā | hotrābhiḥ | agniḥ | manuṣaḥ | su-adhvaraḥ | rājā | viśām | atithiḥ | cāruḥ | āyave