Sukta 2.2
वयमग्ने अर्वता वा सुवीर्यं ब्रह्मणा वा चितयेमा जनाँ अति । अस्माकं द्युम्नमधि पञ्च कृष्टिषूच्चा स्वर्ण शुशुचीत दुष्टरम् ॥
व॒यम॑ग्ने॒ अर्व॑ता वा सु॒वीर्यं॒ ब्रह्म॑णा वा चितयेमा॒ जनाँ॒ अति॑ । अ॒स्माकं॑ द्यु॒म्नमधि॒ पञ्च॑ कृ॒ष्टिषू॒च्चा स्व१॒॑र्ण शु॑शुचीत दु॒ष्टर॑म् ॥
vayám agne árvātā vā su-vī́ryaṃ bráhmaṇā vā citayemā jánāṃ áti | asmā́kaṃ dyumnám ádhi páñca kṛ́ṣṭiṣū́ccā́ svàrṇá śuśucīta dúṣṭaram ||
We, O Agni, by the steed of force or by the power of mantra, would rise beyond the human limitations. Let our luminous glory stand above the five tribes; blaze high like the sun’s truth-light—hard to assail, impossible to cross.
व॒यम् । अ॒ग्ने॒ । अर्व॑ता । वा । सु॒ऽवीर्य॑म् । ब्रह्म॑णा । वा । चि॒त॒ये॒म॒ । जना॑न् । अति॑ । अ॒स्माक॑म् । द्यु॒म्नम् । अधि॑ । पञ्च॑ । कृ॒ष्टिषु॑ । उ॒च्चा । स्वः॑ । न । शु॒शु॒ची॒त॒ । दु॒स्तर॑म् ॥वयम् । अग्ने । अर्वता । वा । सुवीर्यम् । ब्रह्मणा । वा । चितयेम । जनान् । अति । अस्माकम् । द्युम्नम् । अधि । पञ्च । कृष्टिषु । उच्चा । स्वः । न । शुशुचीत । दुस्तरम् ॥vayam | agne | arvatā | vā | su-vīryam | brahmaṇā | vā | citayema | janān | ati | asmākam | dyumnam | adhi | pañca | kṛṣṭiṣu | uccā | svaḥ | na | śuśucīta | dustaram