Sukta 2.2
दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि । प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो वि दिद्युतः ॥
दा नो॑ अग्ने बृह॒तो दाः स॑ह॒स्रिणो॑ दु॒रो न वाजं॒ श्रुत्या॒ अपा॑ वृधि । प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ स्व१॒॑र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतः ॥
dā́ no agne bṛható dā́ḥ sahasríṇo duró ná vā́jaṃ śrutyā́ apā́ vṛdhi | prācī́ dyā́vā-pṛthivī́ bráhmaṇā kṛdhi svàrṇá śukrám uṣásaḥ ví didyutuḥ ||
Give to us, O Agni, the vast; give the thousandfold. Open for our hearing the doors to the plenitude of force, as one opens a gate. Make Heaven and Earth turn towards us by the power of the mantra; like the sun’s own bright gold, let the Dawns flash out their pure radiance.
दाः । नः॒ । अ॒ग्ने॒ । बृ॒ह॒तः । दाः । स॒ह॒स्रिणः॑ । दु॒रः । न । वाज॑म् । श्रुत्यै॑ । अप॑ । वृ॒धि॒ । प्राची॒ इति॑ । द्यावा॑पृथि॒वी इति॑ । ब्रह्म॑णा । कृ॒धि॒ । स्वः॑ । न । शु॒क्रम् । उ॒षसः॑ । वि । दि॒द्यु॒तुः॒ ॥दाः । नः । अग्ने । बृहतः । दाः । सहस्रिणः । दुरः । न । वाजम् । श्रुत्यै । अप । वृधि । प्राची इति । द्यावापृथिवी इति । ब्रह्मणा । कृधि । स्वः । न । शुक्रम् । उषसः । वि । दिद्युतुः ॥dāḥ | naḥ | agne | bṛhataḥ | dāḥ | sahasriṇaḥ | duraḥ | na | vājam | śrutyai | apa | vṛdhi | prācī iti | dyāvāpṛthivī iti | brahmaṇā | kṛdhi | svaḥ | na | śukram | uṣasaḥ | vi | didyutuḥ