Sukta 2.2
स नो रेवत्समिधानः स्वस्तये संददस्वान्रयिमस्मासु दीदिहि । आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये ॥
स नो॑ रे॒वत्स॑मिधा॒नः स्व॒स्तये॑ संदद॒स्वान्र॒यिम॒स्मासु॑ दीदिहि । आ न॑: कृणुष्व सुवि॒ताय॒ रोद॑सी॒ अग्ने॑ ह॒व्या मनु॑षो देव वी॒तये॑ ॥
sá no revát sam-idhānáḥ svastáye saṃ-dadasvā́n rayím asmā́su dīdihi | ā́ naḥ kṛṇuṣva suvitā́ya ródasī ágne havyā́ mánuṣo deva vītáye ||
Kindled, become for us full of richness for our well-being; gather and place the spiritual plenitude within us—shine it in our being. Make for us Heaven and Earth wide for the good passage, O Agni; come to the human offerings, O god, to enjoy and accept them.
सः । नः॒ । रे॒वत् । स॒म्ऽइ॒धा॒नः । स्व॒स्तये॑ । स॒म्ऽद॒द॒स्वान् । र॒यिम् । अ॒स्मासु॑ । दी॒दि॒हि॒ । आ । नः॒ । कृ॒णु॒ष्व॒ । सु॒वि॒ताय॑ । रोद॑सी॒ इति॑ । अग्ने॑ । ह॒व्या । मनु॑षः । दे॒व॒ । वी॒तये॑ ॥सः । नः । रेवत् । सम्इधानः । स्वस्तये । सम्ददस्वान् । रयिम् । अस्मासु । दीदिहि । आ । नः । कृणुष्व । सुविताय । रोदसी इति । अग्ने । हव्या । मनुषः । देव । वीतये ॥saḥ | naḥ | revat | sam-idhānaḥ | svastaye | sam-dadasvān | rayim | asmāsu | dīdihi | ā | naḥ | kṛṇuṣva | suvitāya | rodasī iti | agne | havyā | manuṣaḥ | deva | vītaye