Sukta 2.2
स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष ऋञ्जते गिरा । हिरिशिप्रो वृधसानासु जर्भुरद्द्यौर्न स्तृभिश्चितयद्रोदसी अनु ॥
स होता॒ विश्वं॒ परि॑ भूत्वध्व॒रं तमु॑ ह॒व्यैर्मनु॑ष ऋञ्जते गि॒रा । हि॒रि॒शि॒प्रो वृ॑धसा॒नासु॒ जर्भु॑र॒द्द्यौर्न स्तृभि॑श्चितय॒द्रोद॑सी॒ अनु॑ ॥
sá hotā́ víśvaṃ pári bhūtv adhvaráṃ tám u havyáir mánuṣa ṛ́ñjate girā́ | híri-śipró vṛdhasānā́su járbhurad dyáur ná stṛ́bhiś citayad ródasī ánu ||
He becomes the Hotar encompassing the whole sacrifice; and him the human being adorns with offerings and with the word. Golden-jawed, he works and labors in the growing sessions, awakening with his supports the two worlds, as Heaven does, following after them with luminous perception.
सः । होता॑ । विश्व॒म् । परि॑ । भू॒तु॒ । अ॒ध्व॒रम् । तम् । ऊँ॒ इति॑ । ह॒व्यैः । मनु॑षः । ऋ॒ञ्ज॒ते॒ । गि॒रा । हि॒रि॒ऽशि॒प्रः । वृ॒ध॒सा॒नासु॑ । जर्भु॑रत् । द्यौः । न । स्तृऽभिः॑ । चि॒त॒य॒त् । रोद॑सी॒ इति॑ । अनु॑ ॥सः । होता । विश्वम् । परि । भूतु । अध्वरम् । तम् । ऊँ इति । हव्यैः । मनुषः । ऋञ्जते । गिरा । हिरिशिप्रः । वृधसानासु । जर्भुरत् । द्यौः । न । स्तृभिः । चितयत् । रोदसी इति । अनु ॥saḥ | hotā | viśvam | pari | bhūtu | adhvaram | tam | oṃ iti | havyaiḥ | manuṣaḥ | ṛñjate | girā | hiri-śipraḥ | vṛdhasānāsu | jarbhurat | dyauḥ | na | stṛ-bhiḥ | citayat | rodasī iti | anu