Sukta 2.2
तमुक्षमाणं रजसि स्व आ दमे चन्द्रमिव सुरुचं ह्वार आ दधुः । पृश्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु ॥
तमु॒क्षमा॑णं॒ रज॑सि॒ स्व आ दमे॑ च॒न्द्रमि॑व सु॒रुचं॑ ह्वा॒र आ द॑धुः । पृश्न्या॑: पत॒रं चि॒तय॑न्तम॒क्षभि॑: पा॒थो न पा॒युं जन॑सी उ॒भे अनु॑ ॥
tám ukṣámāṇaṃ rájasi svá ā́ dame candrám iva su-rúcaṃ hvāré ā́ dadhuḥ | pṛ́śnyāḥ pátaraṃ citáyantam akṣá-bhiḥ pā́tho ná pāyúṃ jánasī ubhé ánu ||
Him, growing in strength in his own mid-region and in his home, they set in the enclosure like the Moon—beautifully shining. He awakens the speckled Mother’s wings with his rays; like a guardian of the path, he follows after both the births, Heaven and Earth, protecting the passage of the journey.
तम् । उ॒क्षमा॑णम् । रज॑सि । स्वे । आ । दमे॑ । च॒न्द्रम्ऽइ॑व । सु॒ऽरुच॑म् । ह्वा॒रे । आ । द॒धुः॒ । पृश्न्याः॑ । प॒त॒रम् । चि॒तय॑न्तम् । अ॒क्षऽभिः॑ । पा॒थः । न । पा॒युम् । जन॑सी॒ इति॑ । उ॒भे इति॑ । अनु॑ ॥तम् । उक्षमाणम् । रजसि । स्वे । आ । दमे । चन्द्रम्इव । सुरुचम् । ह्वारे । आ । दधुः । पृश्न्याः । पतरम् । चितयन्तम् । अक्षभिः । पाथः । न । पायुम् । जनसी इति । उभे इति । अनु ॥tam | ukṣamāṇam | rajasi | sve | ā | dame | candram-iva | su-rucam | hvāre | ā | dadhuḥ | pṛśnyāḥ | pataram | citayantam | akṣa-bhiḥ | pāthaḥ | na | pāyum | janasī iti | ubhe iti | anu