Sukta 2.2
तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योररतिं न्येरिरे । रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं न क्षितिषु प्रशंस्यम् ॥
तं दे॒वा बु॒ध्ने रज॑सः सु॒दंस॑सं दि॒वस्पृ॑थि॒व्योर॑र॒तिं न्ये॑रिरे । रथ॑मिव॒ वेद्यं॑ शु॒क्रशो॑चिषम॒ग्निं मि॒त्रं न क्षि॒तिषु॑ प्र॒शंस्य॑म् ॥
táṃ devā́ budhné rájasaḥ su-dáṃsasaṃ divás-pṛthivyór aratíṃ ní erire | rátham iva védyaṃ śukrá-śociṣam agníṃ mitráṃ ná kṣitíṣu pra-śáṃsyam ||
Him the gods have set in place at the foundation of the mid-world, the good-worker, the messenger between Heaven and Earth. Like a chariot fit to be brought to the altar, flaming with pure radiance, they established Agni—like Mitra—praiseworthy among the peoples, the power of harmony in the human habitations.
तं । दे॒वाः । बु॒ध्ने । रज॑सः । सु॒ऽदंस॑सम् । दि॒वःपृ॑थि॒व्योः । अ॒र॒तिम् । नि । ए॒रि॒रे॒ । रथ॑म्ऽइव । वेद्य॑म् । शु॒क्रऽशो॑चिषम् । अ॒ग्निम् । मि॒त्रम् । न । क्षि॒तिषु॑ । प्र॒ऽशंस्य॑म् ॥तं । देवाः । बुध्ने । रजसः । सुदंससम् । दिवःपृथिव्योः । अरतिम् । नि । एरिरे । रथम्इव । वेद्यम् । शुक्रशोचिषम् । अग्निम् । मित्रम् । न । क्षितिषु । प्रशंस्यम् ॥taṃ | devāḥ | budhne | rajasaḥ | su-daṃsasam | divaḥpṛthivyoḥ | aratim | ni | er ire | ratham-iva | vedyam | śukra-śociṣam | agnim | mitram | na | kṣitiṣu | pra-śaṃsyam