Sukta 2.2
अभि त्वा नक्तीरुषसो ववाशिरेऽग्ने वत्सं न स्वसरेषु धेनवः । दिव इवेदरतिर्मानुषा युगा क्षपो भासि पुरुवार संयतः ॥
अ॒भि त्वा॒ नक्ती॑रु॒षसो॑ ववाशि॒रेऽग्ने॑ व॒त्सं न स्वस॑रेषु धे॒नव॑: । दि॒व इ॒वेद॑र॒तिर्मानु॑षा यु॒गा क्षपो॑ भासि पुरुवार सं॒यत॑: ॥
abhí tvā náktīr uṣásaḥ vavāśire ’ágne vatsáṃ ná svásareṣu dhenávaḥ | divá ivéd aratír mā́nuṣā yugā́ ā́ kṣápaḥ bhāsi puru-vāra saṃ-yatáḥ ||
Night-powers and the Dawns cry out to you, O Agni, as the many-formed milch-cows call to their calf in their own stalls. Like a messenger from the heaven-world, you shine through the human ages; through the nights you blaze, O wide-giving One, self-restrained and gathered into your luminous force.
अ॒भि । त्वा॒ । नक्तीः॑ । उ॒षसः॑ । व॒वा॒शि॒रे॒ । अग्ने॑ । व॒त्सम् । न । स्वस॑रेषु । धे॒नवः॑ । दि॒वःऽइ॑व । इत् । अ॒र॒तिः । मानु॑षा । यु॒गा । आ । क्षपः॑ । भा॒सि॒ । पु॒रु॒ऽवा॒र॒ । स॒म्ऽयतः॑ ॥अभि । त्वा । नक्तीः । उषसः । ववाशिरे । अग्ने । वत्सम् । न । स्वसरेषु । धेनवः । दिवःइव । इत् । अरतिः । मानुषा । युगा । आ । क्षपः । भासि । पुरुवार । सम्यतः ॥abhi | tvā | naktīḥ | uṣasaḥ | vavāśire | agne | vatsam | na | svasareṣu | dhenavaḥ | divaḥ-iva | it | aratiḥ | mānuṣā | yugā | ā | kṣapaḥ | bhāsi | puru-vāra | sam-yataḥ