Sukta 2.2
यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा । समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम् ॥
य॒ज्ञेन॑ वर्धत जा॒तवे॑दसम॒ग्निं य॑जध्वं ह॒विषा॒ तना॑ गि॒रा । स॒मि॒धा॒नं सु॑प्र॒यसं॒ स्व॑र्णरं द्यु॒क्षं होता॑रं वृ॒जने॑षु धू॒र्षद॑म् ॥
yajñéna vardhata jātávedasam agníṃ yajadhvaṃ havíṣā tánā girā́ | samidhānám suprayásaṃ svàrṇaraṃ dyukṣáṃ hótāraṃ vṛjáneṣu dhū́ḥsadam ||
By the sacrifice increase Jātavedas; worship Agni with the offering, with the body of your being, with the word. Kindled, full of right delight, a man of the luminous world, shining—he is the Hotar seated in the fields of our life.
य॒ज्ञेन॑ । व॒र्ध॒त॒ । जा॒तऽवे॑दसम् । अ॒ग्निम् । य॒ज॒ध्व॒म् । ह॒विषा॑ । तना॑ । गि॒रा । स॒म्ऽइ॒धा॒नम् । सु॒ऽप्र॒यस॑म् । स्वः॑ऽनरम् । द्यु॒क्षम् । होता॑रम् । वृ॒जने॑षु । धूः॒ऽसद॑म् ॥यज्ञेन । वर्धत । जातवेदसम् । अग्निम् । यजध्वम् । हविषा । तना । गिरा । सम्इधानम् । सुप्रयसम् । स्वःनरम् । द्युक्षम् । होतारम् । वृजनेषु । धूःसदम् ॥yajñena | vardhata | jāta-vedasam | agnim | yajadhvam | haviṣā | tanā | girā | sam-idhānam | su-prayasam | svaḥ-naram | dyukṣam | hotāram | vṛjaneṣu | dhūḥ-sadam