Sukta 2.2
उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश्च शर्मणि । वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ॥
उ॒भया॑सो जातवेदः स्याम ते स्तो॒तारो॑ अग्ने सू॒रय॑श्च॒ शर्म॑णि । वस्वो॑ रा॒यः पु॑रुश्च॒न्द्रस्य॒ भूय॑सः प्र॒जाव॑तः स्वप॒त्यस्य॑ शग्धि नः ॥
ubháyāso jātavedo syāma te stotā́ro agne sū́rayāś ca śármaṇi | vásvo rāyáḥ puru-candrasyá bhū́yasaḥ prajā́vataḥ su-ápatyasya śágdhi naḥ ||
O Jātavedas, may we become your twofold companions—your singers, O Agni, and your illumined seers—established in your peace. Grant us, O Vasus’ lord, a greater share of the many-shining plenitude of being: wealth that is fruitful with increase, rich with progeny, and with a noble lineage of inner powers.
उ॒भया॑सः । जा॒त॒ऽवे॒दः॒ । स्या॒म॒ । ते॒ । स्तो॒तारः॑ । अ॒ग्ने॒ । सू॒रयः॑ । च॒ । शर्म॑णि । वस्वो॑ । रा॒यः । पु॒रु॒ऽच॒न्द्रस्य॑ । भूय॑सः । प्र॒जाऽव॑तः । सुऽअ॒प॒त्यस्य॑ । श॒ग्धि॒ । नः॒ ॥उभयासः । जातवेदः । स्याम । ते । स्तोतारः । अग्ने । सूरयः । च । शर्मणि । वस्वो । रायः । पुरुचन्द्रस्य । भूयसः । प्रजावतः । सुअपत्यस्य । शग्धि । नः ॥ubhayāsaḥ | jāta-vedaḥ | syāma | te | stotāraḥ | agne | sūrayaḥ | ca | śarmaṇi | vasvo | rāyaḥ | puru-candrasya | bhūyasaḥ | prajāvataḥ | su-apatyasya | śagdhi | naḥ