Sukta 2.2
स नो बोधि सहस्य प्रशंस्यो यस्मिन्त्सुजाता इषयन्त सूरयः । यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे ॥
स नो॑ बोधि सहस्य प्र॒शंस्यो॒ यस्मि॑न्त्सुजा॒ता इ॒षय॑न्त सू॒रय॑: । यम॑ग्ने य॒ज्ञमु॑प॒यन्ति॑ वा॒जिनो॒ नित्ये॑ तो॒के दी॑दि॒वांसं॒ स्वे दमे॑ ॥
sá no bodhi sahasya pra-śáṃsyo yásmint su-jātā́ íṣayanta sū́rayaḥ | yám agne yajñám upa-yánti vājíno nítye tókē dīdi-vā́ṃsaṃ své dáme ||
Awaken for us, O mighty one, worthy of praise—he in whom the well-born seers set their impulsion. O Agni, whom the possessors of force approach as the sacrifice, shining ever in the home, in the perpetual lineage and in the inner dwelling.
सः । नः॒ । बो॒धि॒ । स॒ह॒स्य॒ । प्र॒ऽशंस्यः॑ । यस्मि॑न् । सु॒ऽजा॒ताः । इ॒षय॑न्त । सू॒रयः॑ । यम् । अ॒ग्ने॒ । य॒ज्ञम् । उ॒प॒ऽयन्ति॑ । वा॒जिनः॑ । नित्ये॑ । तो॒के । दी॒दि॒ऽवांस॑म् । स्वे । दमे॑ ॥सः । नः । बोधि । सहस्य । प्रशंस्यः । यस्मिन् । सुजाताः । इषयन्त । सूरयः । यम् । अग्ने । यज्ञम् । उपयन्ति । वाजिनः । नित्ये । तोके । दीदिवांसम् । स्वे । दमे ॥saḥ | naḥ | bodhi | sahasya | pra-śaṃsyaḥ | yasmin | su-jātāḥ | iṣayanta | sūrayaḥ | yam | agne | yajñam | upa-yanti | vājinaḥ | nitye | toke | dīdi-vāṃsam | sve | dame