Sukta 2.14
अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थेऽवपज्जघन्वान् । कुत्सस्यायोरतिथिग्वस्य वीरान्न्यावृणग्भरता सोममस्मै ॥
अध्व॑र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या॑ उ॒पस्थेऽव॑पज्जघ॒न्वान् । कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒ सोम॑मस्मै ॥
ádhvaryavo yáḥ śatám ā́ sahásraṃ bhū́myā upásthé'vapat jaghánvān | kútsasyā́yor atithí-gvasya vīrā́n nyā́vṛṇag bháratā sómam asmai ||
O Adhvaryus, he who cast down a hundred and a thousand upon the lap of Earth, slaying; he who secured the heroes of Kutsa, of Āyu, of Atithigva—bring Soma for him.
अध्व॑र्यवः । यः । श॒तम् । आ । स॒हस्र॑म् । भूम्याः॑ । उ॒पऽस्थे॑ । अव॑पत् । ज॒घ॒न्वान् । कुत्स॑स्य । आ॒योः । अ॒ति॒थि॒ऽग्वस्य॑ । वी॒रान् । नि । अवृ॑णक् । भर॑त॒ । सोम॑म् । अ॒स्मै॒ ॥अध्वर्यवः । यः । शतम् । आ । सहस्रम् । भूम्याः । उपस्थे । अवपत् । जघन्वान् । कुत्सस्य । आयोः । अतिथिग्वस्य । वीरान् । नि । अवृणक् । भरत । सोमम् । अस्मै ॥adhvaryavaḥ | yaḥ | śatam | ā | sahasram | bhūmyāḥ | upa-sthe | avapat | jaghanvān | kutsasya | āyoḥ | atithi-gvasya | vīrān | ni | avṛṇak | bharata | somam | asmai