Sukta 2.14
अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः । यो वर्चिनः शतमिन्द्रः सहस्रमपावपद्भरता सोममस्मै ॥
अध्व॑र्यवो॒ यः श॒तं शम्ब॑रस्य॒ पुरो॑ बि॒भेदाश्म॑नेव पू॒र्वीः । यो व॒र्चिन॑: श॒तमिन्द्र॑: स॒हस्र॑म॒पाव॑प॒द्भर॑ता॒ सोम॑मस्मै ॥
ádhvaryavo yáḥ śatáṃ śámbharasya púro bibhedā́śmanéva pūrvī́ḥ | yó varcínaḥ śatám índraḥ sahásram apā́vapat bháratā sómam asmai ||
O Adhvaryus, he who shattered a hundred strongholds of Śambara, the ancient ones, as with a stone; he who, Indra, cast down a hundred, a thousand of the shining foes—bring Soma for him.
अध्व॑र्यवः । यः । श॒तम् । शम्ब॑रस्य । पुरः॑ । बि॒भेद॑ । अश्म॑नाऽइव । पू॒र्वीः । यः । व॒र्चिनः॑ । श॒तम् । इन्द्रः॑ । स॒हस्र॑म् । अ॒पऽअव॑पत् । भर॑त॒ । सोम॑म् । अ॒स्मै॒ ॥अध्वर्यवः । यः । शतम् । शम्बरस्य । पुरः । बिभेद । अश्मनाइव । पूर्वीः । यः । वर्चिनः । शतम् । इन्द्रः । सहस्रम् । अपअवपत् । भरत । सोमम् । अस्मै ॥adhvaryavaḥ | yaḥ | śatam | śambarasya | puraḥ | bibheda | aśmanāiva | pūrvīḥ | yaḥ | varcinaḥ | śatam | indraḥ | sahasram | apa-avapat | bharata | somam | asmai