Sukta 2.14
अध्वर्यवो यन्नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तदिन्द्रे । गभस्तिपूतं भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत ॥
अध्व॑र्यवो॒ यन्न॑रः का॒मया॑ध्वे श्रु॒ष्टी वह॑न्तो नशथा॒ तदिन्द्रे॑ । गभ॑स्तिपूतं भरत श्रु॒तायेन्द्रा॑य॒ सोमं॑ यज्यवो जुहोत ॥
ádhvaryavo yán naraḥ kāmayā́dhve śruṣṭī́ váhanto naśathā tád índre | gábhasti-pūtaṃ bharata śrutā́ya índrāya sómaṃ yajyavo juhota ||
O Adhvaryus, whatever you men desire and achieve, bearing the well-yoked (pressings), place that in Indra. Bring the Soma purified by the rays (hands); offer, O sacrificers, the Soma to Indra who is the Heard-of (the One who answers the call).
अध्व॑र्यवः । यत् । न॒रः॒ । का॒मया॑ध्वे । श्रु॒ष्टी । वह॑न्तः । न॒श॒थ॒ । तत् । इन्द्रे॑ । गभ॑स्तिऽपूतम् । भ॒र॒त॒ । श्रु॒ताय॑ । इन्द्रा॑य॒ । सोम॑म् । य॒ज्य॒वः॒ । जु॒हो॒त॒ ॥अध्वर्यवः । यत् । नरः । कामयाध्वे । श्रुष्टी । वहन्तः । नशथ । तत् । इन्द्रे । गभस्तिपूतम् । भरत । श्रुताय । इन्द्राय । सोमम् । यज्यवः । जुहोत ॥adhvaryavaḥ | yat | naraḥ | kāmayādhve | śruṣṭī | vahantaḥ | naśatha | tat | indre | gabhasti-pūtam | bharata | śrutāya | indrāya | somam | yajyavaḥ | juhota